वांछित मन्त्र चुनें

त्वं नृ॒चक्षा॑ असि सोम वि॒श्वत॒: पव॑मान वृषभ॒ ता वि धा॑वसि । स न॑: पवस्व॒ वसु॑म॒द्धिर॑ण्यवद्व॒यं स्या॑म॒ भुव॑नेषु जी॒वसे॑ ॥

अंग्रेज़ी लिप्यंतरण

tvaṁ nṛcakṣā asi soma viśvataḥ pavamāna vṛṣabha tā vi dhāvasi | sa naḥ pavasva vasumad dhiraṇyavad vayaṁ syāma bhuvaneṣu jīvase ||

पद पाठ

त्वम् । नृ॒ऽचक्षाः॑ । अ॒सि॒ । सो॒म॒ । वि॒श्वतः॑ । पव॑मान । वृ॒ष॒भ॒ । ता । वि । धा॒व॒सि॒ । सः । नः॒ । प॒व॒स्व॒ । वसु॑ऽमत् । हिर॑ण्यऽवत् । व॒यम् । स्या॒म॒ । भुव॑नेषु । जी॒वसे॑ ॥ ९.८६.३८

ऋग्वेद » मण्डल:9» सूक्त:86» मन्त्र:38 | अष्टक:7» अध्याय:3» वर्ग:19» मन्त्र:3 | मण्डल:9» अनुवाक:5» मन्त्र:38


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे परमात्मन् ! (त्वं) तुम (नृचक्षाः असि) मनुष्यों के कर्म्मों के भिन्न-२ फल देनेवाले हो और (पवमान) हे पवित्र करनेवाले ! (विश्वतः) सब प्रकार से (वृषभ) हे अनन्तशक्तियुक्त परमात्मन् ! (ता विधावसि) उन शक्तियों से आप हमको शुद्ध करें (सः) उक्त शक्तियुक्त आप (नः) हमको (पवस्व) पवित्र करें। आप (वसुमत्) ऐश्वर्य्यवाले और (हिरण्यवत्) प्रकाशवाले हैं। (वयं) हम (भुवनेषु) इस संसार में (जीवसे) जीने के लिये (स्याम) उक्त ऐश्वर्य्ययुक्त हों ॥३८॥
भावार्थभाषाः - इस मन्त्र में परमात्मा को कर्मों के साक्षीरूप से वर्णन किया है ॥३८॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे परमात्मन् ! (त्वं) पूर्वोक्तस्त्वं (नृचक्षाः, असि) मानवेभ्यः कर्म्मणां पृथक् पृथक् फलं ददासि। अपि च (पवमान) हे परमात्मन् ! (विश्वतः) सर्वतः (वृषभ) अनन्तशक्तियुक्तोऽसि। (ता, वि, धावसि) ताभिः शक्तिभिस्त्वं मां परिशोधय (सः) तच्छक्तियुक्तस्त्वं (नः) अस्मान् (पवस्व) पवित्रय (वसुमत्) ऐश्वर्य्यवान् (हिरण्यवत्) सप्रकाशोऽसि। (वयं) वयं (भुवनेषु) अस्मिन् संसारे (जीवसे) जीवनाय (स्याम) उक्तैश्वर्य्ययुक्ता भवाम ॥३८॥