वांछित मन्त्र चुनें

अव्ये॑ पुना॒नं परि॒ वार॑ ऊ॒र्मिणा॒ हरिं॑ नवन्ते अ॒भि स॒प्त धे॒नव॑: । अ॒पामु॒पस्थे॒ अध्या॒यव॑: क॒विमृ॒तस्य॒ योना॑ महि॒षा अ॑हेषत ॥

अंग्रेज़ी लिप्यंतरण

avye punānam pari vāra ūrmiṇā hariṁ navante abhi sapta dhenavaḥ | apām upasthe adhy āyavaḥ kavim ṛtasya yonā mahiṣā aheṣata ||

पद पाठ

अव्ये॑ । पु॒ना॒नम् । परि॑ । वारे॑ । ऊ॒र्मिणा॑ । हरि॑म् । न॒व॒न्ते॒ । अ॒भि । स॒प्त । धे॒नवः॑ । अ॒पाम् । उ॒पऽस्थे॑ । अधि॑ । आ॒यवः॑ । क॒विम् । ऋ॒तस्य॑ । योना॑ । म॒हि॒षाः । अ॒हे॒ष॒त॒ ॥ ९.८६.२५

ऋग्वेद » मण्डल:9» सूक्त:86» मन्त्र:25 | अष्टक:7» अध्याय:3» वर्ग:16» मन्त्र:5 | मण्डल:9» अनुवाक:5» मन्त्र:25


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अव्ये, वारे) वरणीय पुरुष को (ऊर्मिणा) प्रेम से (पुनानं) पवित्र करनेवाले (हरिम्) परमात्मा को (सप्तधनेवः) इन्द्रियों की सात वृत्तियें (अभिनवन्ते) प्राप्त होती हैं, (अपामुपस्थे) कर्म्मों की अध्यक्षता में जो (कविं) सर्वज्ञ है। उसको (अध्यायवः) उपासक लोग जो (महिषाः) महाशय हैं, वे (ऋतस्य योना) सच्चाई के स्थान में (अध्यहेषत) उपासना करते हैं ॥२५॥
भावार्थभाषाः - सदा सद्विवेकी लोग अन्य उपास्य देवों की उपासना को छोड़कर सब कर्म्मों के अधिष्ठाता परमात्मा की ही एकमात्र उपासना करते हैं, किसी अन्य की नहीं ॥२५॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अव्ये, वारे) वरणीयपुरुषं (ऊर्मिणा) प्रीत्या (पुनानं) पवित्रकर्तारं (हरिं) परमात्मानं (सप्त, धेनवः) इन्द्रियाणां सप्तवृत्तयः (अभि, नवन्ते) प्राप्नुवन्ति (अपां, उपस्थे) कर्म्माध्यक्षतायां यः (कविं) सर्वज्ञोऽस्ति तं (अधि, आयवः) उपासकाः किम्भूताः (महिषाः) महाशयाः (ऋतस्य, योना) सत्यस्थानेषु (अधि, अहेषत) उपासनां कुर्वन्ति ॥२५॥