वांछित मन्त्र चुनें

वृषा॑ मती॒नां प॑वते विचक्ष॒णः सोमो॒ अह्न॑: प्रतरी॒तोषसो॑ दि॒वः । क्रा॒णा सिन्धू॑नां क॒लशाँ॑ अवीवश॒दिन्द्र॑स्य॒ हार्द्या॑वि॒शन्म॑नी॒षिभि॑: ॥

अंग्रेज़ी लिप्यंतरण

vṛṣā matīnām pavate vicakṣaṇaḥ somo ahnaḥ pratarītoṣaso divaḥ | krāṇā sindhūnāṁ kalaśām̐ avīvaśad indrasya hārdy āviśan manīṣibhiḥ ||

पद पाठ

वृषा॑ । म॒ती॒नाम् । प॒व॒ते॒ । वि॒ऽच॒क्ष॒णः । सोमः॑ । अह्नः॑ । प्र॒ऽत॒री॒ता । उ॒षसः॑ । दि॒वः । क्रा॒णा । सिन्धू॑नाम् । क॒लशा॑न् । अ॒वी॒व॒श॒त् । इन्द्र॑स्य । हार्दि॑ । आ॒ऽवि॒शन् । म॒नी॒षिऽभिः॑ ॥ ९.८६.१९

ऋग्वेद » मण्डल:9» सूक्त:86» मन्त्र:19 | अष्टक:7» अध्याय:3» वर्ग:15» मन्त्र:4 | मण्डल:9» अनुवाक:5» मन्त्र:19


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - परमात्मा (मनीषिभिः) सदुपदेशकों से उपदेश किया हुआ (इन्द्रस्य) कर्मयोगी के (हार्दि) हृदय में (आविशन्) प्रवेश करता हुआ (कलशान्) कर्मयोगियों के अन्तःकरणों की (अवीवशत्) कामना करता है। जो परमात्मा (दिवः) द्युलोक को (सिन्धूनां) स्यन्दनशील सूक्ष्म तत्त्वों का (क्राणा) कर्त्ता है और (अह्नः) दिन के (उषसः) ज्योतियों का (प्रतरीता) वर्द्धक है। (सोमः) वह सर्वोत्पादक परमात्मा (विचक्षणः) सर्वज्ञ परमेश्वर हमारी (मतीनां) उपासकों की कामनाओं की (वृषा) पूर्ति करनेवाला है, उक्त परमात्मा हम लोगों को (पवते) पवित्र करे ॥१९॥
भावार्थभाषाः - जो लोग सदुपदेशकों के सदुपदेश को श्रद्धापूर्वक ग्रहण करते हैं, उनके अन्तःकरणों को परमात्मा अवश्यमेव पवित्र करता है ॥१९॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - परमात्मा (मनीषिभिः) सदुपदेशकैरुपदिष्टस्य (इन्द्रस्य) कर्म्मयोगिनः (हार्दि) हृदये (आविशन्) प्रवेशं कुर्वन् (कलशान्) कर्म्मयोगिनोऽन्तःकरणानि (अवीवशत्) कामयते। यः परमात्मा (दिवः) द्युलोकस्य (सिन्धूनां) स्यन्दनशीलसूक्ष्मपदार्थानां (क्राणा) कर्ता अस्ति। अपि च (अह्नः) दिवसस्य (उषसः) ज्योतिषां (प्रतरीता) वर्द्धकोऽस्ति। (सोमः) सर्वोत्पादकपरमात्मा (विचक्षणः) सर्वज्ञः परमेश्वरः (मतीनां) उपासकानां कामनानां (वृषा) पूरकः पूर्वोक्तपरमात्मा अस्मान् (पवते) पवित्रयतु ॥१९॥