अधि॒ द्याम॑स्थाद्वृष॒भो वि॑चक्ष॒णोऽरू॑रुच॒द्वि दि॒वो रो॑च॒ना क॒विः । राजा॑ प॒वित्र॒मत्ये॑ति॒ रोरु॑वद्दि॒वः पी॒यूषं॑ दुहते नृ॒चक्ष॑सः ॥
adhi dyām asthād vṛṣabho vicakṣaṇo rūrucad vi divo rocanā kaviḥ | rājā pavitram aty eti roruvad divaḥ pīyūṣaṁ duhate nṛcakṣasaḥ ||
अधि॑ । द्याम् । अ॒स्था॒त् । वृ॒ष॒भः । वि॒ऽच॒क्ष॒णः । अरू॑रुचात् । वि । दि॒वः । रो॒च॒ना । क॒विः । राजा॑ । प॒वित्र॑म् । अति॑ । ए॒ति॒ । रोरु॑वत् । दि॒वः । पी॒यूष॑म् । दु॒ह॒ते॒ नृ॒चक्ष॑सः ॥ ९.८५.९