वांछित मन्त्र चुनें

स॒हस्र॑णीथः श॒तधा॑रो॒ अद्भु॑त॒ इन्द्रा॒येन्दु॑: पवते॒ काम्यं॒ मधु॑ । जय॒न्क्षेत्र॑म॒भ्य॑र्षा॒ जय॑न्न॒प उ॒रुं नो॑ गा॒तुं कृ॑णु सोम मीढ्वः ॥

अंग्रेज़ी लिप्यंतरण

sahasraṇīthaḥ śatadhāro adbhuta indrāyenduḥ pavate kāmyam madhu | jayan kṣetram abhy arṣā jayann apa uruṁ no gātuṁ kṛṇu soma mīḍhvaḥ ||

पद पाठ

स॒हस्र॑ऽनीथः । श॒तऽधा॑रः । अद्भु॑तः । इन्द्रा॑य । इन्दुः॑ । प॒व॒ते॒ । काम्य॑म् । मधु॑ । जय॑न् । क्षेत्र॑म् । अ॒भि । अ॒र्ष॒ । जय॑न् । अ॒पः । उ॒रुम् । नः॒ । गा॒तुम् । कृ॒णु॒ । सो॒म॒ । मी॒ढ्वः॒ ॥ ९.८५.४

ऋग्वेद » मण्डल:9» सूक्त:85» मन्त्र:4 | अष्टक:7» अध्याय:3» वर्ग:10» मन्त्र:4 | मण्डल:9» अनुवाक:4» मन्त्र:4


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सहस्रनीथः) आप सहस्राक्ष हैं। (शतधारः) अनेक प्रकार के आनन्दों के स्रोत हैं। (अद्भुतः) आश्चर्यमय हैं। (इन्द्राय इन्दुः) ऐश्वर्य्य के प्रकाशक हैं। (काम्यं मधु) कामनारूप मधुरता को (पवते) पवित्र करनेवाले हैं और (क्षेत्रं जयन्) इस विस्तृत ब्रह्माण्ड को वशीभूत करते हुए और (अपः जयन्) कर्म्मों को वशीभूत करते हुए (अभ्यर्ष) सम्यक् प्राप्त हों। (नो गातुं) हमारी उपासना को (उरुं कृणु) विस्तृत करें। (सोम) हे परमात्मन् ! आप सब प्रकार के आनन्दों को (मीढ्वः) सिञ्चन करनेवाले हैं ॥५॥
भावार्थभाषाः - परमात्मा में ज्ञान की अनन्त शक्तियें हैं और आनन्द की अनन्त शक्तियें हैं। बहुत क्या ? सब आनन्दों की वृष्टि करनेवाला एकमात्र परमात्मा ही है, इसलिये उपासकों को चाहिये कि उस सर्वैश्वर्य्यप्रद परमात्मा की उपासना करें ॥५॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सहस्रनीथः) भवान् सहस्राक्षोऽसि। तथा (शतधारः) नानाविधामोदानां स्रोतः। अथ च (अद्भुतः) आश्चर्यमयोऽस्ति। (इन्द्राय, इन्दुः) ऐश्वर्यस्य प्रकाशकश्चास्ति। (काम्यं, मधुः) कामनारूपमाधुर्यं (पवते) पवित्रयति। अथ च (क्षेत्रं, जयन्) विस्तृतमिमं ब्रह्माण्डं तथा (अपः जयन्) कर्माणि च स्ववशे कुर्वन् (अभ्यर्ष) सम्यक् प्राप्तो भव। (नः, गातुं) मदीयामुपासनां (उरुं, कृणु) विस्तारयतु। (सोम) हे परमात्मन् ! भवान् विविधविधानामानन्दानां (मीढ्वः) सिञ्चन-कर्त्ताऽस्ति ॥५॥