वांछित मन्त्र चुनें

विश्व॑स्य॒ राजा॑ पवते स्व॒र्दृश॑ ऋ॒तस्य॑ धी॒तिमृ॑षि॒षाळ॑वीवशत् । यः सूर्य॒स्यासि॑रेण मृ॒ज्यते॑ पि॒ता म॑ती॒नामस॑मष्टकाव्यः ॥

अंग्रेज़ी लिप्यंतरण

viśvasya rājā pavate svardṛśa ṛtasya dhītim ṛṣiṣāḻ avīvaśat | yaḥ sūryasyāsireṇa mṛjyate pitā matīnām asamaṣṭakāvyaḥ ||

पद पाठ

विश्व॑स्य । राजा॑ । प॒व॒ते॒ । स्वः॒ऽदृशः॑ । ऋ॒तस्य॑ । धी॒तिम् । ऋ॒षि॒षाट् । अ॒वी॒व॒श॒त् । यः । सूर्य॑स्य । असि॑रेण । मृ॒ज्यते॑ । पि॒ता । म॒ती॒नाम् । अस॑मष्टऽकाव्यः ॥ ९.७६.४

ऋग्वेद » मण्डल:9» सूक्त:76» मन्त्र:4 | अष्टक:7» अध्याय:3» वर्ग:1» मन्त्र:4 | मण्डल:9» अनुवाक:4» मन्त्र:4


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (विश्वस्य राजा) सम्पूर्ण संसार का राजा परमात्मा (पवते) हमको पवित्र करता है। (ऋतस्य) सत्यवक्ता कर्मयोगी का तथा (स्वर्दृशः) सुख के ज्ञाता के (धीतिम्) कर्म को (अवीविशत्) चाहता है और परमात्मा (ऋषिषाट्) सूक्ष्म से भी सूक्ष्म है तथा जो परमात्मा (सूर्यस्य) ज्ञान की (असिरेण) रश्मियों से (मृज्यते) साक्षात् किया जाता है और (मतीनाम्) समस्त ज्ञानों का (पिता) प्रदाता है तथा (असमष्टकाव्यः) कवियों की वाणी से परे है ॥४॥
भावार्थभाषाः - परमात्मा सब ज्ञानों का केन्द्र है और उसको कोई ज्ञानविषय नहीं कर सकता, इसलिये वह अतीन्द्रिय है अर्थात् “यतो वाचो निवर्तन्ते अप्राप्य मनसा सह” उसको वाणी और मन दोनों ही विषय नहीं कर सकते। अर्थात् वह वाणी का लक्ष्यार्थ है, वाच्यार्थ नहीं ॥४॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (विश्वस्य राजा) समस्तसंसारस्य प्रभुः परमात्मा (पवते) अस्मान् पवित्रयति (ऋतस्य) सत्यवक्तुः कर्मयोगिनः (स्वर्दृशः) सुखज्ञातुः (धीतिम्) कर्म (अवीविशत्) वाञ्छति। स परमात्मा (ऋषिषाट्) सूक्ष्मात्सूक्ष्मतरोऽस्ति। तथा (यः) यः परमेश्वरः (सूर्यस्य) ज्ञानस्य (असिरेण) रश्मिभिः (मृज्यते) साक्षात्क्रियते। अथ च (मतीनाम्) अखिलज्ञानानां (पिता) प्रदाता परमात्मा (असमष्टकाव्यः) वाचामगोचरोऽस्ति ॥४॥