वांछित मन्त्र चुनें

शूरो॒ न ध॑त्त॒ आयु॑धा॒ गभ॑स्त्यो॒: स्व१॒॑: सिषा॑सन्रथि॒रो गवि॑ष्टिषु । इन्द्र॑स्य॒ शुष्म॑मी॒रय॑न्नप॒स्युभि॒रिन्दु॑र्हिन्वा॒नो अ॑ज्यते मनी॒षिभि॑: ॥

अंग्रेज़ी लिप्यंतरण

śūro na dhatta āyudhā gabhastyoḥ svaḥ siṣāsan rathiro gaviṣṭiṣu | indrasya śuṣmam īrayann apasyubhir indur hinvāno ajyate manīṣibhiḥ ||

पद पाठ

शूरः॑ । न । ध॒त्ते॒ । आयु॑धा । गभ॑स्त्योः । स्व१॒॑रिति॑ स्वः॑ । सिसा॑सन् । र॒थि॒रः । गोऽइ॑ष्टिषु । इन्द्र॑स्य । शुष्म॑म् । ई॒रय॑न् । अ॒प॒स्युऽभिः॑ । इन्दुः॑ । हि॒न्वा॒नः । अ॒ज्य॒ते॒ । म॒नी॒षिऽभिः॑ ॥ ९.७६.२

ऋग्वेद » मण्डल:9» सूक्त:76» मन्त्र:2 | अष्टक:7» अध्याय:3» वर्ग:1» मन्त्र:2 | मण्डल:9» अनुवाक:4» मन्त्र:2


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दुः) सर्वप्रकाशक परमात्मा (मनीषिभिः) ज्ञानयोगियों द्वारा (अज्यते) ध्यानविषय किया जाता है। (अपस्युभिः) कर्मयोगियों द्वारा (हिन्वानः) प्रेरणा किया हुआ तथा (इन्द्रस्य) कर्मयोगी के (शुष्मम्) बल को (ईरयन्) प्रेरणा करता हुआ (शूरः न) शूरवीर के समान (गभस्त्योः) अपने कर्म और ज्ञानरूप शक्ति में (आयुधा) सृष्टि के करणोपकरणरूप आयुधों को (धत्त) धारण करता है। (स्वः) वह सुखस्वरूप परमात्मा (गविष्टिषु) प्रजाओं में (सिषासन्) विभाग करने की इच्छा से (रथिरः) गतिस्वरूप परमात्मा अपनी गति से सर्वत्र परिपूर्ण होता है ॥२॥
भावार्थभाषाः - परमात्मा कर्मों के फल देने के अभिप्राय से सर्वत्र सृष्टि में अपनी न्यायरूपी शक्ति से सम्पूर्ण प्रजा में विराजमान होकर कर्मों के यथायोग्य फल देता है ॥२॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दुः) सर्वप्रकाशकः परमेश्वरः (मनीषिभिः) ज्ञानयोगिभिः (अज्यते) साक्षात्क्रियते। तथा (अपस्युभिः) कर्मयोगिभिः (हिन्वानः) प्रेर्यमाणः अथ च (इन्द्रस्य) कर्मयोगिनः (शुष्मम्) बलं (ईरयन्) प्रेरयन् (शूरः न) शूर इव (गभस्त्योः) स्वकीयकर्मरूप-ज्ञानरूपशक्त्योः (आयुधा) सृष्टेः करणोपकरणरूपाण्यायुधानि (धत्त) दधाति। (स्वः) सुखस्वरूपः परमात्मा (गविष्टिषु) प्रजासु (सिषासन्) सम्भक्तुमिच्छया (रथिरः) गतिस्वरूपः स परमात्मा स्वकीयगत्या सर्वत्र परिपूर्णो भवति ॥२॥