वांछित मन्त्र चुनें

अ॒द्भिः सो॑म पपृचा॒नस्य॑ ते॒ रसोऽव्यो॒ वारं॒ वि प॑वमान धावति । स मृ॒ज्यमा॑नः क॒विभि॑र्मदिन्तम॒ स्वद॒स्वेन्द्रा॑य पवमान पी॒तये॑ ॥

अंग्रेज़ी लिप्यंतरण

adbhiḥ soma papṛcānasya te raso vyo vāraṁ vi pavamāna dhāvati | sa mṛjyamānaḥ kavibhir madintama svadasvendrāya pavamāna pītaye ||

पद पाठ

अ॒त्ऽभिः । सो॒म॒ । प॒पृ॒चा॒नस्य॑ । ते॒ । रसः॑ । अव्यः॑ । वार॑म् । वि । प॒व॒मा॒न॒ । धा॒व॒ति॒ । सः । मृ॒ज्यमा॑नः । क॒विऽभिः॑ । म॒दि॒न्ऽत॒म॒ । स्वद॑स्व । इन्द्रा॑य । प॒व॒मा॒न॒ । पी॒तये॑ ॥ ९.७४.९

ऋग्वेद » मण्डल:9» सूक्त:74» मन्त्र:9 | अष्टक:7» अध्याय:2» वर्ग:32» मन्त्र:4 | मण्डल:9» अनुवाक:4» मन्त्र:9


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अद्भिः) सत्कर्मों से (पपृचानस्य) अभिव्यक्त (ते) आपका (रसः) आनन्द (अव्यः) जो सर्वरक्षक है, वह (वारं) वरणीय पुरुष के प्रति (वारम्) विशेषरूप से प्राप्त होता है। (विधावति) सबको पवित्र करनेवाले (पवमान) परमात्मन् ! आप (कविभिः) विद्वानों से (मृज्यमानः) साक्षात्कृत हैं और (पवमान) पवित्र करनेवाले हैं और (मदिन्तम) सबको आह्लादकारक आप (इन्द्राय) कर्मयोगी की (पीतये) तृप्ति के लिये (स्वदस्व) प्रियकारक हों ॥९॥
भावार्थभाषाः - जो लोग कर्मयोग से अपने को पवित्र बनाते हैं, उनके लिये परमात्मा अवश्यमेव अपने ब्रह्मामृत का प्रदान करते हैं ॥९॥ यह ७४ वाँ सूक्त और ३२ वाँ वर्ग समाप्त हुआ ॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अद्भिः) सद्भिः कर्मभिः (पपृचानस्य) अभिव्यक्तस्य (ते) तव (रसः) आनन्दः यः (अव्यः) सर्वरक्षकोऽस्ति सः (वारम्) वरणीयं पुरुषं प्रति (विधावति) विशेषरूपेण प्राप्तो भवति। (पवमान) सर्वपवित्रयितः परमात्मन् ! भवान् (कविभिः) विद्वद्भिः (मृज्यमानः) साक्षात्कृतोऽस्ति तथा (पवमान) पवितास्ति। (मदिन्तम) सर्वानन्दस्त्वं (इन्द्राय) कर्मयोगिनः (पीतये) तृप्तये (स्वदस्व) प्रियकारको भव ॥९॥ इति चतुस्सप्ततितमं सूक्तं द्वात्रिंशो वर्गश्च समाप्तः ॥