वांछित मन्त्र चुनें

स॒हस्र॑धा॒रेऽव॒ ता अ॑स॒श्चत॑स्तृ॒तीये॑ सन्तु॒ रज॑सि प्र॒जाव॑तीः । चत॑स्रो॒ नाभो॒ निहि॑ता अ॒वो दि॒वो ह॒विर्भ॑रन्त्य॒मृतं॑ घृत॒श्चुत॑: ॥

अंग्रेज़ी लिप्यंतरण

sahasradhāre va tā asaścatas tṛtīye santu rajasi prajāvatīḥ | catasro nābho nihitā avo divo havir bharanty amṛtaṁ ghṛtaścutaḥ ||

पद पाठ

स॒हस्र॑ऽधारे । अव॑ । ताः । अ॒स॒श्चतः॑ । तृ॒तीये॑ । स॒न्तु॒ । रज॑सि । प्र॒जाऽव॑तीः । चत॑स्रः । नाभः॑ । निऽहि॑ताः । अ॒वः । दि॒वः । ह॒विः । भ॒र॒न्ति॒ । अ॒मृत॑म् । घृ॒त॒ऽश्चुतः॑ ॥ ९.७४.६

ऋग्वेद » मण्डल:9» सूक्त:74» मन्त्र:6 | अष्टक:7» अध्याय:2» वर्ग:32» मन्त्र:1 | मण्डल:9» अनुवाक:4» मन्त्र:6


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सहस्रधारे)  अनन्त प्रकार के ऐश्वर्यवाले (तृतीये) तीसरे अन्तरिक्षलोक में (रजसि) जो रजोगुणविशिष्ट है, उसमें (प्रजावतीः) नाना प्रकार की प्रजावाले ऐश्वर्य (सन्तु) हमको प्राप्त हों। (असश्चतः) जो ऐश्वर्य जीवन को अशक्त करनेवाले न हों, (ताः) वे शक्तियें (घृतः चुतः) जो नाना प्रकार के स्निग्ध पदार्थों की देनेवाली हैं (हविः) और हविरूप अमृत को देनेवाली हैं और जो (दिवः अवः निहिताः) द्युलोक के नीचे रक्खी हुई हैं, जिनमें (चतस्रः नाभः) चार प्रकार की दीप्ति है अर्थात् धर्म, अर्थ, काम, मोक्ष चारों प्रकार के फल संयुक्त हैं, वे शक्तियें परमात्मा हमें प्रदान करे ॥६॥
भावार्थभाषाः - परमात्मा जिन पर प्रसन्न होता है, उनको चारों प्रकार के फलों का प्रदान करता है ॥६॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सहस्रधारे) नानविधैश्वर्यवति (तृतीये) तृतीयेऽन्तरिक्षलोके (रजसि) यो लोको रजोगुणविशिष्टोऽस्ति तस्मिन् (प्रजावतीः) नानाविधप्रजावन्त्यैश्वर्याणि (सन्तु) अस्मान् मिलन्तु। (असश्चतः) यान्यैश्वर्याणि जीवात्मनोऽशक्तकारीणि न भवन्ति (ताः) ताश्शक्तयः (घृतः चुतः) या नानाविधस्निग्धपदार्थदात्र्यः (हविः) हवीरूपं (अमृतं भरन्ति) अमृतं ददति। अथ च याः (दिवः अवः निहिताः) द्युलोकस्याधः स्थितास्तथा यासु (चतस्रः नाभः) चतुर्विधा दीप्तयः सन्ति, धर्मार्थकाममोक्षफलयुता इति यावत् ताश्शक्तीः परमात्मास्मभ्यं ददातु ॥६॥