वांछित मन्त्र चुनें

अरा॑वीदं॒शुः सच॑मान ऊ॒र्मिणा॑ देवा॒व्यं१॒॑ मनु॑षे पिन्वति॒ त्वच॑म् । दधा॑ति॒ गर्भ॒मदि॑तेरु॒पस्थ॒ आ येन॑ तो॒कं च॒ तन॑यं च॒ धाम॑हे ॥

अंग्रेज़ी लिप्यंतरण

arāvīd aṁśuḥ sacamāna ūrmiṇā devāvyam manuṣe pinvati tvacam | dadhāti garbham aditer upastha ā yena tokaṁ ca tanayaṁ ca dhāmahe ||

पद पाठ

अरा॑वीत् । अं॒शुः । सच॑मानः । ऊ॒र्मिणा॑ । दे॒व॒ऽअ॒व्य॑म् । मनु॑षे । पि॒न्व॒ति॒ । त्वच॑म् । दधा॑ति । गर्भ॑म् । अदि॑तेः । उ॒पऽस्थे॑ । आ । येन॑ । तो॒कम् । च॒ । तन॑यम् । च॒ । धाम॑हे ॥ ९.७४.५

ऋग्वेद » मण्डल:9» सूक्त:74» मन्त्र:5 | अष्टक:7» अध्याय:2» वर्ग:31» मन्त्र:5 | मण्डल:9» अनुवाक:4» मन्त्र:5


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (ऊर्मिणा) अपने आनन्दलहरों से (सचमानः) संगत (अंशुः) सर्वव्यापक परमात्मा (अरावीत्) सदुपदेश करता है और (मनुषे) मनुष्य के लिये (देवाव्यं त्वचम्) देवभाव को पैदा करनेवाले शरीर को (पिन्वति) पुष्ट करता है तथा (अदितेः उपस्थे) इस पृथिवी पर (गर्भम्) नाना प्रकार के औषधियों के उत्पत्तिरूप गर्भ को (आ दधाति) धारण कराता है, (येन) जिससे (तोकम्) दुःख के नाश करनेवाले (तनयम्) पुत्र-पौत्र को (धामहे) हम लोग धारण करें ॥५॥
भावार्थभाषाः - परमात्मा की कृपा से ही सुकर्मा पुरुष को नीरोग और दिव्य शरीर मिलता है, जिससे वह सत्सन्तति को प्राप्त होकर इस संसार में अभ्युदयशाली बनता है ॥५॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (ऊर्मिणा) स्वीयानन्दतरङ्गैः (सचमानः) सङ्गतः (अंशुः) व्यापकः परमात्मा (अरावीत्) सदुपदेशं करोति। अथ च (मनुषे) मनुष्याय (देवाव्यं त्वचम्) देवभावोत्पादकं शरीरं (पिन्वति) पुष्णाति। तथा (अदितेः उपस्थे) अस्याः पृथिव्याः (गर्भम्) नानाविधौषधेरुत्पत्तिरूपं गर्भं (आ दधाति) धारयति। (येन) यतः (तोकम्) दुःखनाशकं (तनयम्) पुत्रपौत्रादिकं (धामहे) वयं धारयेम ॥५॥