वांछित मन्त्र चुनें

ऋ॒तस्य॑ गो॒पा न दभा॑य सु॒क्रतु॒स्त्री ष प॒वित्रा॑ हृ॒द्य१॒॑न्तरा द॑धे । वि॒द्वान्त्स विश्वा॒ भुव॑ना॒भि प॑श्य॒त्यवाजु॑ष्टान्विध्यति क॒र्ते अ॑व्र॒तान् ॥

अंग्रेज़ी लिप्यंतरण

ṛtasya gopā na dabhāya sukratus trī ṣa pavitrā hṛdy antar ā dadhe | vidvān sa viśvā bhuvanābhi paśyaty avājuṣṭān vidhyati karte avratān ||

पद पाठ

ऋ॒तस्य॑ । गो॒पाः । न । दभा॑य । सु॒ऽक्रतुः॑ । त्री । सः । प॒वित्रा॑ । हृ॒दि । अ॒न्तः । आ । द॒धे॒ । वि॒द्वान् । सः । विश्वा॑ । भुव॑ना । अ॒भि । प॒श्य॒ति॒ । अव॑ । अजु॑ष्टान् । वि॒ध्य॒ति । क॒र्ते । अ॒व्र॒तान् ॥ ९.७३.८

ऋग्वेद » मण्डल:9» सूक्त:73» मन्त्र:8 | अष्टक:7» अध्याय:2» वर्ग:30» मन्त्र:3 | मण्डल:9» अनुवाक:4» मन्त्र:8


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (ऋतस्य गोपाः) सचाई की रक्षा करनेवाला (सुक्रतुः) शोभन कर्मोंवाला कर्मयोगी (न दभाय) जो किसी से दबाया नहीं जाता (सः) वह (पवित्रा) अपने पवित्र (हृद्यन्तः) अन्तःकरण में (त्री) परमात्मा की उत्पति-स्थिति-प्रलयरूप तीनों शक्तियों को (आ दधे) धारण करता है। (स विद्वान्) वह विद्वान् पुरुष (विश्वा भुवना) सम्पूर्ण लोक-लोकान्तरों को (अभि पश्यति) देखता है और (कर्ते) कर्तव्य में (अव्रतान्) जो अव्रती (अजुष्टान्) और परमात्मा से वियुक्त हैं, उनको (अवविध्यति) मारता है ॥८॥
भावार्थभाषाः - जो लोग परमात्मा पर अटल विश्वास रखनेवाले हैं, वे किसी से दबाये नहीं जा सकते हैं ॥८॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (ऋतस्य गोपाः) सत्यस्य रक्षकः (सुक्रतुः) शोभनकर्मी (न दभाय) यः परैरदम्भनीयः (सः) असौ कर्मयोगी (पवित्रा) पवित्रे स्वकीये (हृद्यन्तः) अन्तःकरणे (त्री) परमात्मनः उत्पत्तिस्थितिप्रलयरूपास्तिस्रः शक्तीः (आ दधे) आदधाति। (स विद्वान्) असौ पण्डितः कर्मयोगी (विश्वा भुवना) सम्पूर्णानि लोकलोकान्तराणि (अभि पश्यति) अवलोकयति। अथ च (कर्ते) कर्तव्ये (अव्रतान्) अव्रतिनः (अजुष्टान्) परमात्मनो वियुक्तान् (अवविध्यति) हिनस्ति ॥८॥