वांछित मन्त्र चुनें

नाभा॑ पृथि॒व्या ध॒रुणो॑ म॒हो दि॒वो॒३॒॑ऽपामू॒र्मौ सिन्धु॑ष्व॒न्तरु॑क्षि॒तः । इन्द्र॑स्य॒ वज्रो॑ वृष॒भो वि॒भूव॑सु॒: सोमो॑ हृ॒दे प॑वते॒ चारु॑ मत्स॒रः ॥

अंग्रेज़ी लिप्यंतरण

nābhā pṛthivyā dharuṇo maho divo pām ūrmau sindhuṣv antar ukṣitaḥ | indrasya vajro vṛṣabho vibhūvasuḥ somo hṛde pavate cāru matsaraḥ ||

पद पाठ

नाभा॑ । पृ॒थि॒व्याः । ध॒रुणः॑ । म॒हः । दि॒वः । अ॒पाम् । ऊ॒र्मौ । सिन्धु॑षु । अ॒न्तः । उ॒क्षि॒तः । इन्द्र॑स्य । वज्रः॑ । वृ॒ष॒भः । वि॒भुऽव॑सुः । सोमः॑ । हृ॒दे । प॒व॒ते॒ । चारु॑ । म॒त्स॒रः ॥ ९.७२.७

ऋग्वेद » मण्डल:9» सूक्त:72» मन्त्र:7 | अष्टक:7» अध्याय:2» वर्ग:28» मन्त्र:2 | मण्डल:9» अनुवाक:4» मन्त्र:7


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्द्रस्य वज्रः) रुद्ररूप परमात्मा (वृषभः) सब कामनाओं की वृष्टि करनेवाला तथा (विभूवसुः) परिपूर्ण एश्वर्यवाला और (चारु मत्सरः) जिसका सर्वोपरि आनन्द है, वह उक्त (सोमः) परमात्मा (हृदे) हमारे हृदय को (पवते) पवित्र करे। (पृथिव्या नाभा) जो परमात्मा पृथिवी की नाभि में स्थिर है और (महो दिवः) बड़े द्युलोक का (धरुणः) धारण करनेवाला है तथा (अपाम् ऊर्मौ) जल की लहरों में और (सिन्धुषु) समुद्रों में (अन्तः उक्षितः) अभिषिक्त किया गया है। उक्त गुणविशिष्ट परमात्मा हमको पवित्र करे ॥७॥
भावार्थभाषाः - जो लोग उक्त गुण से विशिष्ट परमात्मा का उपासन करते हैं और उसमें अटल विश्वास रखते हैं, परमात्मा उनको अवश्यमेव पवित्र करता है और जो हतविश्वास होकर ईश्वर के नियम का उल्लङ्घन करते हैं, परमात्मा उनके मद को चूर्ण करने के लिये वज्र के समान उद्यत रहता है ॥७॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्द्रस्य वज्रः) रुद्ररूपः (वृषभः) कामानां वर्षकः (विभूवसुः) पूर्णैश्वर्ययुक्तः (चारु मत्सरः) सर्वोपरि प्रमोदरूपः पूर्वोक्तः (सोमः) जगदीशः (हृदे) मद्हृदयं (पवते) पवित्रयतु। (पृथिव्या नाभा) यः परमेश्वरः पृथिव्या नाभौ स्थिरः अथ च (महो दिवः) महतो द्युलोकस्य (धरुणः) धारकोऽस्ति। तथा (अपाम् ऊर्मौ) जलतरङ्गेषु (सिन्धुषु) समुद्रेषु च (अन्तः उक्षितः) अभिषिक्तोऽस्ति स परमात्मा मां पवित्रयतु ॥७॥