वांछित मन्त्र चुनें

त्वे॒षं रू॒पं कृ॑णुते॒ वर्णो॑ अस्य॒ स यत्राश॑य॒त्समृ॑ता॒ सेध॑ति स्रि॒धः । अ॒प्सा या॑ति स्व॒धया॒ दैव्यं॒ जनं॒ सं सु॑ष्टु॒ती नस॑ते॒ सं गोअ॑ग्रया ॥

अंग्रेज़ी लिप्यंतरण

tveṣaṁ rūpaṁ kṛṇute varṇo asya sa yatrāśayat samṛtā sedhati sridhaḥ | apsā yāti svadhayā daivyaṁ janaṁ saṁ suṣṭutī nasate saṁ goagrayā ||

पद पाठ

त्वे॒षम् । रू॒पम् । कृ॒णु॒ते॒ । वर्णः॑ । अ॒स्य॒ । सः । यत्र॑ । अश॑यत् । सम्ऽऋ॑ता । सेध॑ति । स्रि॒धः । अ॒प्साः । या॒ति॒ । स्व॒धया॑ । दैव्य॑म् । जन॑म् । सम् । सु॒ऽस्तु॒ती । नस॑ते । सम् । गोऽअ॑ग्रया ॥ ९.७१.८

ऋग्वेद » मण्डल:9» सूक्त:71» मन्त्र:8 | अष्टक:7» अध्याय:2» वर्ग:26» मन्त्र:3 | मण्डल:9» अनुवाक:4» मन्त्र:8


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोमः) परमात्मा (रूपं) रूप को (त्वेषं) दीप्यमान (कृणुते) करता है। (वर्णः) वरणीय (सः) वह परमात्मा (यत्र) जिस (समृता) संग्राम में (अशयत्) स्थिर होता है, (अस्य) उसमें (स्रिधः) दुष्टों को (सेधति) मारता है। (दैव्यं जनं) दिव्य शक्तिवाले मनुष्य को वह (अप्साः) सत्कर्मों का दाता (सुष्टुती) सुन्दर स्तुतियोग्य परमात्मा (स्वधया) अपने आनन्द से (याति) परिपूर्ण है और (गो अग्रया) वेदवाणी से (सं नसते) सर्वत्र संगत होता है ॥८॥
भावार्थभाषाः - इस मन्त्र में इस बात का वर्णन किया गया है कि परमात्मा प्रत्येक रूप से प्रदीप्त करनेवाला है। उसी की सत्ता से सम्पूर्ण पदार्थ स्थिर हैं और स्वयं वह निर्लेप होकर इन सब चीजों में विराजमान है ॥८॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोमः) परमात्मा (रूपम्) स्वरूपं (त्वेषम्) दीप्यमानं (कृणुते) करोति (वर्णः) वरणीयः (सः) असौ परमेश्वरः (यत्र) यस्मिन् (समृता) रणे (अशयत्) स्थिरो भवति (अस्य) तत्र (स्रिधः) दुष्टान् (सेधति) हिनस्ति। (दैव्यं जनम्) दिव्यशक्तिमन्तं पुरुषं (अप्साः) सुकर्मदः (सुष्टुती) स्तुतियोग्यो जगदीशः (स्वधया) स्वानन्दवृष्ट्या (याति) परिपूर्णोऽस्ति। अथ च (गो अग्रया) वेदवाण्या (सं नसते) सर्वत्र सङ्गतो भवति ॥८॥