वांछित मन्त्र चुनें

समी॒ रथं॒ न भु॒रिजो॑रहेषत॒ दश॒ स्वसा॑रो॒ अदि॑तेरु॒पस्थ॒ आ । जिगा॒दुप॑ ज्रयति॒ गोर॑पी॒च्यं॑ प॒दं यद॑स्य म॒तुथा॒ अजी॑जनन् ॥

अंग्रेज़ी लिप्यंतरण

sam ī rathaṁ na bhurijor aheṣata daśa svasāro aditer upastha ā | jigād upa jrayati gor apīcyam padaṁ yad asya matuthā ajījanan ||

पद पाठ

सम् । ई॒म् इति॑ । रथ॑म् । न । भु॒रिजोः॑ । अ॒हे॒ष॒त॒ । दश॑ । स्वसा॑रः । अदि॑तेः । उ॒पऽस्थे॑ । आ । जिगा॑त् । उप॑ । ज्र॒य॒ति॒ । गोः । अ॒पी॒च्य॑म् । प॒दम् । यत् । अ॒स्य॒ । म॒तुथाः॑ । अजी॑जनन् ॥ ९.७१.५

ऋग्वेद » मण्डल:9» सूक्त:71» मन्त्र:5 | अष्टक:7» अध्याय:2» वर्ग:25» मन्त्र:5 | मण्डल:9» अनुवाक:4» मन्त्र:5


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (दश) दश संख्यावाले (स्वसारः) स्वाभाविक गतिवाले प्राण (अदितेः उपस्थे) इस पार्थिव शरीर में (आ जिगात्) इन्द्रियों की वृत्तियों को जीतते हैं और (न) जैसे सारथी (रथं) रथ को (भुरिजोः) हाथों से (अहेषत) प्रेरणा करता है, इसी प्रकार परमात्मा शुभाशुभ कर्म द्वारा मनुष्यों के शरीररूपी रथ को प्रेरणा करता है। (अस्य) इस जीवात्मा के (मतुथाः) मनोरथों को जो (अजीजनन्) सफल करते हैं तथा (यत्) जो (अपीच्यं) गूढ़ (पदं) पद है, वह इस जीवात्मा को प्रदान करते हैं और (ईं) उक्त परमात्मा को (सं) भली-भाँति प्राप्त होकर (उप ज्रयति) अपने मनोरथों को सिद्ध कर लेता है ॥५॥
भावार्थभाषाः - इस मन्त्र में यह बतलाया गया है कि मनुष्य प्राणायाम द्वारा संयमी बनकर उन्नतिशील बने ॥५॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (दश) दशसङ्ख्याकाः (स्वसारः) स्वाभाविकगतिमन्तः प्राणाः (अदितेः उपस्थे) अस्मिन् पार्थिवशरीरे (आजिगात्) इन्द्रियवृत्तीः जयन्ति (न) यथा सारथी (रथम्) यानं (भुरिजोः) बाहुभ्यां (अहेषत) प्रेरयति तथा जगदीश्वरः शुभाशुभकर्मभिर्नरशरीररूपं रथं प्रेरयति। अथ च (अस्य) अमुष्य जीवात्मनः (मतुथाः) मनोरथान् (अजीजनन्) सफलयन्ति। तथा (यत्) यत् (अपीच्यं पदम्) गूढं पदं वर्तते तत् जीवात्मानमिमं प्रददति। अथ च (ईम्) पूर्वोक्तं परमेश्वरं (सम्) सम्यक् प्राप्य (उप ज्रयति) स्वकीयमनोरथान् साध्नोति ॥५॥