वांछित मन्त्र चुनें

सूर्य॑स्येव र॒श्मयो॑ द्रावयि॒त्नवो॑ मत्स॒रास॑: प्र॒सुप॑: सा॒कमी॑रते । तन्तुं॑ त॒तं परि॒ सर्गा॑स आ॒शवो॒ नेन्द्रा॑दृ॒ते प॑वते॒ धाम॒ किं च॒न ॥

अंग्रेज़ी लिप्यंतरण

sūryasyeva raśmayo drāvayitnavo matsarāsaḥ prasupaḥ sākam īrate | tantuṁ tatam pari sargāsa āśavo nendrād ṛte pavate dhāma kiṁ cana ||

पद पाठ

सूर्य॑स्यऽइव । र॒श्मयः॑ । द्र॒व॒यि॒त्नवः॑ । म॒त्स॒रासः॑ । प्र॒ऽसुपः॑ । सा॒कम् । ई॒र॒ते॒ । तन्तु॑म् । त॒तम् । परि॑ । सर्गा॑सः । आ॒शवः॑ । न । इन्द्रा॑त् । ऋ॒ते । प॒व॒ते॒ । धाम॑ । किम् । च॒न ॥ ९.६९.६

ऋग्वेद » मण्डल:9» सूक्त:69» मन्त्र:6 | अष्टक:7» अध्याय:2» वर्ग:22» मन्त्र:1 | मण्डल:9» अनुवाक:4» मन्त्र:6


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (मत्सरासः) सर्वाह्लादक (प्रसुपः) सबका निवासस्थान परमात्मा (ततं तन्तुं) विस्तृत प्रकृतिरूप तन्तु के (साकं) साथ (ईरते) गति करता है। उससे (आशवः) गमनशील (सर्गासः) सृष्टियें (सूर्यस्य रश्मय इव) सूर्य की किरणों के समान (द्रवयित्नवः) क्षरणशील उत्पन्न होती हैं। उक्त परमात्मा (इन्द्रात् ऋते) उद्योगी के अतिरिक्त (किं चन धाम) अन्य किसी के अन्तःकरण को (न पवते) नहीं पवित्र करता है ॥६॥
भावार्थभाषाः - उक्तगुणसंपन्न परमात्मा के द्वारा सूर्य की रश्मियों के समान अनन्त प्रकार की सृष्टियें उत्पन्न होती हैं ॥६॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (मत्सरासः) सर्वाह्लादकः (प्रसुपः) सर्वाधाररूपः परमात्मा (ततं तन्तुम्) विस्तृतप्रकृतितन्तुना (साकम्) सह (ईरते) गच्छति। ततः (आशवः) गत्वर्यः (सर्गासः) सृष्टयः (सूर्यस्य रश्मय इव) रविकिरणा इव (द्रावयित्नवः) स्यन्दनशीला उत्पद्यन्ते। पूर्वोक्तः परमात्मा (इन्द्रादृते) उद्योगिनो विना (किं चन धाम) अन्यदीयान्तःकरणं (न पवते) न पवित्रयति ॥६॥