वांछित मन्त्र चुनें

अ॒यं दि॒व इ॑यर्ति॒ विश्व॒मा रज॒: सोम॑: पुना॒नः क॒लशे॑षु सीदति । अ॒द्भिर्गोभि॑र्मृज्यते॒ अद्रि॑भिः सु॒तः पु॑ना॒न इन्दु॒र्वरि॑वो विदत्प्रि॒यम् ॥

अंग्रेज़ी लिप्यंतरण

ayaṁ diva iyarti viśvam ā rajaḥ somaḥ punānaḥ kalaśeṣu sīdati | adbhir gobhir mṛjyate adribhiḥ sutaḥ punāna indur varivo vidat priyam ||

पद पाठ

अ॒यम् । दि॒वः । इ॒य॒र्ति॒ । विश्व॑म् । आ । रजः॑ । सोमः॑ । पु॒ना॒नः । क॒लशे॑षु । सी॒द॒ति॒ । अ॒त्ऽभिः । गोभिः॑ । मृ॒ज्य॒ते॒ । अद्रि॑ऽभिः । सु॒तः । पु॒ना॒नः । इन्दुः॑ । वरि॑ऽवः । वि॒द॒त् । प्रि॒यम् ॥ ९.६८.९

ऋग्वेद » मण्डल:9» सूक्त:68» मन्त्र:9 | अष्टक:7» अध्याय:2» वर्ग:20» मन्त्र:4 | मण्डल:9» अनुवाक:4» मन्त्र:9


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अयं सोमः) यह परमात्मा (दिवः) द्युलोक के (विश्वं) सम्पूर्ण (रजः) ऐश्वर्य को (इयर्ति) देता है और (कलशेषु) समस्त अन्तःकरणों में (पुनानः) पवित्र करता हुआ (आ सीदति) विराजमान है। तथा (अद्रिभिः) इन्द्रियवृत्तियों से (अद्भिः गोभिः) ज्ञान और कर्मों द्वारा (मृज्यते) साक्षात्कार किया जाता है और (सुतः) स्वयंसिद्ध (इन्दुः) परमैश्वर्यवान् (पुनानः) पवित्रकर्ता परमात्मा (प्रियं) प्रियकारक (वरिवः) वरणीय ऐश्वर्य को ज्ञानयोगी और कर्मयोगियों को (विदत्) देता है ॥९॥
भावार्थभाषाः - ज्ञानयोगी और कर्मयोगी को परमात्मा अनन्त प्रकार के ऐश्वर्य देता है ॥९॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अयं सोमः) असौ जगज्जनकः परमात्मा (दिवः) द्युलोकस्य (विश्वम्) सकलं (रजः) ऐश्वर्यं (इयर्ति) ददाति। अथ च (कलशेषु) अखिलान्तःकरणेषु (पुनानः) पवित्रयन् (आ सीदति) विराजते। तथा (अद्रिभिः) इन्द्रियवृत्तिभिः (अद्भिर्गोभिः) ज्ञानयोगकर्मयोगाभ्यां (मृज्यते) साक्षात्क्रियते। अथ च (सुतः) स्वयंसिद्धः (इन्दुः) परमैश्वर्यवान् (पुनानः) पविता परमेश्वरः (प्रियम्) प्रियकारकं (वरिवः) वरणीयमैश्वर्यं ज्ञानयोगिभ्यः कर्मयोगिभ्यश्च (विदत्) ददाति ॥९॥