वांछित मन्त्र चुनें

ये ते॑ प॒वित्र॑मू॒र्मयो॑ऽभि॒क्षर॑न्ति॒ धार॑या । तेभि॑र्नः सोम मृळय ॥

अंग्रेज़ी लिप्यंतरण

ye te pavitram ūrmayo bhikṣaranti dhārayā | tebhir naḥ soma mṛḻaya ||

पद पाठ

ये । ते॒ । प॒वित्र॑म् । ऊ॒र्मयः॑ । अ॒भि॒ऽक्षर॑न्ति । धार॑या । तेभिः॑ । नः॒ । सो॒म॒ । मृ॒ळ॒य॒ ॥ ९.६१.५

ऋग्वेद » मण्डल:9» सूक्त:61» मन्त्र:5 | अष्टक:7» अध्याय:1» वर्ग:18» मन्त्र:5 | मण्डल:9» अनुवाक:3» मन्त्र:5


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे सौम्यस्वभाव कर्मयोगिन् ! (ये ते ऊर्मयः) जो आपकी शरणरक्षक शक्तियें (पवित्रम्) शुद्ध हृदयवाले मनुष्य की ओर (धारया) प्रवाहरूप से (अभिक्षरन्ति) अभिगत होती हैं, (तेभिः) उन शक्तियों से (नः) हमको (मृळय) सुरक्षित करके सुखी करिये ॥५॥
भावार्थभाषाः - कर्म्मयोगी के उद्योगादि भावों को धारण करके स्वयं उद्योगी बनने का उपदेश इस मन्त्र में किया गया है ॥५॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे सौम्यप्रकृते कर्मयोगिन् ! (ये ते ऊर्मयः) याः शरणागतरक्षिका भवतः शक्तयः (पवित्रम्) शुद्धान्तःकरणवन्तं मनुष्यं (धारया) प्रवाहरूपेण (अभिक्षरन्ति) अभिगता भवन्ति। (तेभिः) ताभिः शक्तिभिः (नः) अस्मान् (मृळय) सुरक्षितान् विधाय सुखय ॥५॥