वांछित मन्त्र चुनें

अ॒भि त्यं पू॒र्व्यं मदं॑ सुवा॒नो अ॑र्ष प॒वित्र॒ आ । अ॒भि वाज॑मु॒त श्रव॑: ॥

अंग्रेज़ी लिप्यंतरण

abhi tyam pūrvyam madaṁ suvāno arṣa pavitra ā | abhi vājam uta śravaḥ ||

पद पाठ

अ॒भि । त्यम् । पू॒र्व्यम् । मद॑म् । सु॒वा॒नः । अ॒र्ष॒ । प॒वित्रे॑ । आ । अ॒भि । वाज॑म् । उ॒त । श्रवः॑ ॥ ९.६.३

ऋग्वेद » मण्डल:9» सूक्त:6» मन्त्र:3 | अष्टक:6» अध्याय:7» वर्ग:26» मन्त्र:3 | मण्डल:9» अनुवाक:1» मन्त्र:3


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (पवित्र) हे सबको पावन करनेवाले परमात्मन् ! आप (त्यम्, पूर्व्यम्, मदम्) उस नित्यानन्द को (सुवानः) प्रदान करनेवाले हैं, जिससे मनुष्य सदैव के लिये आनन्दलाभ करता है, इसलिये आप (अभिवाजम्) सब प्रकार का बल (उत) और (श्रवः) ऐश्वर्य हमको (अर्ष) प्रदान करें ॥३॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - भवान् (त्यम्, पूर्व्यम्, मदम्) तं नित्यानन्दम् (सुवानः) उत्पादयति येन जनः शश्वत्प्रीयते अतो भवान् (अभिवाजम्) सर्वविधबलं (उत) तथा (श्रवः) कीर्तिं (अर्ष) मह्यं प्रयच्छ ॥३॥