वांछित मन्त्र चुनें

स न॑ ऊ॒र्जे व्य१॒॑व्ययं॑ प॒वित्रं॑ धाव॒ धार॑या । दे॒वास॑: शृ॒णव॒न्हि क॑म् ॥

अंग्रेज़ी लिप्यंतरण

sa na ūrje vy avyayam pavitraṁ dhāva dhārayā | devāsaḥ śṛṇavan hi kam ||

पद पाठ

सः । नः॒ । ऊ॒र्जे । वि । अ॒व्यय॑म् । प॒वित्र॑म् । धा॒व॒ । धार॑या । दे॒वासः॑ । शृ॒णव॑न् । हि । क॒म् ॥ ९.४९.४

ऋग्वेद » मण्डल:9» सूक्त:49» मन्त्र:4 | अष्टक:7» अध्याय:1» वर्ग:6» मन्त्र:4 | मण्डल:9» अनुवाक:2» मन्त्र:4


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे परमात्मन् ! (सः) वह आप (ऊर्जे) ज्ञान और क्रिया में बलप्राप्ति के लिये (नोऽव्ययं पवित्रम्) हमारे अन्तःकरण को निश्चल करके (धारया धाव) ज्ञान की धारा से शुद्ध करें और हे भगवन् ! (कम्) आपकी उच्चारित वेदवाणियों को (देवासः हि) दिव्य गुणवाले विद्वान् ही (शृणवन्) सुनें ॥४॥
भावार्थभाषाः - जो लोग दिव्य शक्तिवाले होते हैं, वे ही परमात्मा की वेदरूपी वाणी का श्रवण मनन आदि कर सकते हैं, अन्य नहीं ॥४॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे परमात्मन् ! (सः) स त्वं (ऊर्जे) ज्ञाने तथा क्रियायां च बलप्राप्तये (नोऽव्ययं पवित्रम्) ममान्तःकरणं निश्चलं कृत्वा (धारया धाव) ज्ञानस्य धारया शुद्धं कुरु। अथ च हे जगदीश्वर ! (कम्) भवदुच्चारितां वेदवाणीं (देवासः हि) दिव्यगुणयुक्ता विद्वांस एव (शृणवन्) शृण्वन्तु ॥४॥