वांछित मन्त्र चुनें

विश्वा॑ सोम पवमान द्यु॒म्नानी॑न्द॒वा भ॑र । वि॒दाः स॑ह॒स्रिणी॒रिष॑: ॥

अंग्रेज़ी लिप्यंतरण

viśvā soma pavamāna dyumnānīndav ā bhara | vidāḥ sahasriṇīr iṣaḥ ||

पद पाठ

विश्वा॑ । सो॒म॒ । प॒व॒मा॒न॒ । द्यु॒म्नानि॑ । इ॒न्दो॒ इति॑ । आ । भ॒र॒ । वि॒दाः । स॒ह॒स्रिणीः॑ । इषः॑ ॥ ९.४०.४

ऋग्वेद » मण्डल:9» सूक्त:40» मन्त्र:4 | अष्टक:6» अध्याय:8» वर्ग:30» मन्त्र:4 | मण्डल:9» अनुवाक:2» मन्त्र:4


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम पवमान) हे जगत् को पवित्र करनेवाले परमात्मन् ! (इन्दो) हे परमैश्वर्यसम्पन्न ! (विश्वा द्युम्नानि आभर) आप मेरे लिये सम्पूर्ण दिव्य रत्नों को दीजिये तथा (सहस्रिणीः इषः विदाः) और अनेक प्रकार के अन्नादि ऐश्वर्यों को दीजिये ॥४॥
भावार्थभाषाः - सब प्रकार के ऐश्वर्यों का दाता एकमात्र परमात्मा ही है, इसलिये उससे ऐश्वर्यों की प्रार्थना करनी चाहिये ॥४॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम पवमान) हे जगतां पवित्रयितः परमात्मन् ! (इन्दो) हे परमैश्वर्यसम्पन्न ! त्वं (विश्वा द्युम्नानि आभर) निखिलदिव्यरत्नं मह्यं देहि किञ्च (सहस्रिणीः इषः विदाः) अनेकधा अन्नाद्यैश्वर्यान् देहि ॥४॥