वांछित मन्त्र चुनें

आ॒विवा॑सन्परा॒वतो॒ अथो॑ अर्वा॒वत॑: सु॒तः । इन्द्रा॑य सिच्यते॒ मधु॑ ॥

अंग्रेज़ी लिप्यंतरण

āvivāsan parāvato atho arvāvataḥ sutaḥ | indrāya sicyate madhu ||

पद पाठ

आ॒ऽविवा॑सन् । प॒रा॒ऽवतः॑ । अथो॒ इति॑ । अ॒र्वा॒ऽवतः॑ । सु॒तः । इन्द्रा॑य । सि॒च्य॒ते॒ । मधु॑ ॥ ९.३९.५

ऋग्वेद » मण्डल:9» सूक्त:39» मन्त्र:5 | अष्टक:6» अध्याय:8» वर्ग:29» मन्त्र:5 | मण्डल:9» अनुवाक:2» मन्त्र:5


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सुतः) वह स्वयम्भू परमात्मा (परावतः) दूरस्थ (अथो अर्वावतः) और समीपस्थ वस्तुओं को (आविवासन्) भली प्रकार प्रकाशित करता हुआ (इन्द्राय सिच्यते मधु) जीवात्मा के लिये आनन्दवृष्टि करता है ॥५॥
भावार्थभाषाः - जीवात्मा के लिये आनन्द का स्रोत एकमात्र वही परमात्मा है ॥५॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सुतः) स स्वयम्भूः परमात्मा (परावतः) दूरस्थान् (अथो अर्वावतः) अथ च समीपस्थान् पदार्थान् (आविवासन्) सुष्ठु प्रकाशयन् (इन्द्राय सिच्यते मधु) जीवात्मने आनन्दं वर्षति ॥५॥