अ॒नू॒पे गोमा॒न्गोभि॑रक्षा॒: सोमो॑ दु॒ग्धाभि॑रक्षाः । स॒मु॒द्रं न सं॒वर॑णान्यग्मन्म॒न्दी मदा॑य तोशते ॥
anūpe gomān gobhir akṣāḥ somo dugdhābhir akṣāḥ | samudraṁ na saṁvaraṇāny agman mandī madāya tośate ||
अ॒नू॒पे । गोऽमा॑न् । गोभिः॑ । अ॒क्षा॒रिति॑ । सोमः॑ । दु॒ग्धाभिः॑ । अ॒क्षा॒रिति॑ । स॒मु॒द्रम् । न । स॒म्ऽवर॑णानि । अ॒ग्म॒न् । म॒न्दी । मदा॑य । तो॒श॒ते॒ ॥ ९.१०७.९