वांछित मन्त्र चुनें

अ॒स्येदिन्द्रो॒ मदे॒ष्वा ग्रा॒भं गृ॑भ्णीत सान॒सिम् । वज्रं॑ च॒ वृष॑णं भर॒त्सम॑प्सु॒जित् ॥

अंग्रेज़ी लिप्यंतरण

asyed indro madeṣv ā grābhaṁ gṛbhṇīta sānasim | vajraṁ ca vṛṣaṇam bharat sam apsujit ||

पद पाठ

अ॒स्य । इत् । इन्द्रः॑ । मदे॑षु । आ । ग्रा॒भम् । गृ॒भ्णी॒त॒ । सा॒न॒सिम् । वज्र॑म् । च॒ । वृष॑णम् । भ॒र॒त् । सम् । अ॒प्सु॒ऽजित् ॥ ९.१०६.३

ऋग्वेद » मण्डल:9» सूक्त:106» मन्त्र:3 | अष्टक:7» अध्याय:5» वर्ग:9» मन्त्र:3 | मण्डल:9» अनुवाक:7» मन्त्र:3


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सानसिम्) सर्वभजनीय परमात्मा को (ग्राभम्) जो ग्रहण करने के योग्य है (आ) और (वृषणम्) वर्षणशील (वज्रम्) विद्युत् को (संभरत्) बनाता है, (अस्य, इत्) उसी की ही (इन्द्रः) कर्मयोगी (अप्सुजित्) जो सब कामनाओं को वशीभूत करनेवाला है, (गृम्णीत) उपासना को (मदेषु) आनन्द की प्राप्ति के लिये करें ॥३॥
भावार्थभाषाः - कर्मयोगी को चाहिये कि वह एकमात्र परमात्मा की अनन्य भक्ति करे, अन्य किसी की उपासना न करे ॥३॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सानसिं) सर्वभजनीयं (ग्राभं) ग्रहणीयं (आ) अथ (वृषणं) वर्षणशीलं (वज्रं, सम्भरत्) विद्युतः कर्त्तारम् (अस्य, इत्) अस्यैव (इन्द्रः) कर्मयोगी (अप्सुजित्) सर्वकामनानां स्ववशीभूतकारकः (मदेषु) आनन्दलाभाय (गृभ्णीत) उपासनां कुर्वीत ॥३॥