वांछित मन्त्र चुनें

इ॒त ऊ॒ती वो॑ अ॒जरं॑ प्रहे॒तार॒मप्र॑हितम् । आ॒शुं जेता॑रं॒ हेता॑रं र॒थीत॑म॒मतू॑र्तं तुग्र्या॒वृध॑म् ॥

अंग्रेज़ी लिप्यंतरण

ita ūtī vo ajaram prahetāram aprahitam | āśuṁ jetāraṁ hetāraṁ rathītamam atūrtaṁ tugryāvṛdham ||

पद पाठ

इ॒तः । ऊ॒ती । वः॒ । अ॒जर॑म् । प्र॒ऽहे॒तार॑म् । अप्र॑ऽहितम् । आ॒शुम् । जेता॑रम् । हेता॑रम् । र॒थिऽत॑मम् । अतू॑र्तम् । तु॒ग्र्य॒ऽवृध॑म् ॥ ८.९९.७

ऋग्वेद » मण्डल:8» सूक्त:99» मन्त्र:7 | अष्टक:6» अध्याय:7» वर्ग:3» मन्त्र:7 | मण्डल:8» अनुवाक:10» मन्त्र:7