वांछित मन्त्र चुनें

तमिन्द्रं॑ जोहवीमि म॒घवा॑नमु॒ग्रं स॒त्रा दधा॑न॒मप्र॑तिष्कुतं॒ शवां॑सि । मंहि॑ष्ठो गी॒र्भिरा च॑ य॒ज्ञियो॑ व॒वर्त॑द्रा॒ये नो॒ विश्वा॑ सु॒पथा॑ कृणोतु व॒ज्री ॥

अंग्रेज़ी लिप्यंतरण

tam indraṁ johavīmi maghavānam ugraṁ satrā dadhānam apratiṣkutaṁ śavāṁsi | maṁhiṣṭho gīrbhir ā ca yajñiyo vavartad rāye no viśvā supathā kṛṇotu vajrī ||

पद पाठ

तम् । इन्द्र॑म् । जो॒ह॒वी॒मि॒ । म॒घऽवा॑नम् । उ॒ग्रम् । स॒त्रा । दधा॑नम् । अप्र॑तिऽस्कुतम् । शवां॑सि । मंहि॑ष्ठः । गीः॒ऽभिः । आ । च॒ । य॒ज्ञियः॑ । व॒वर्त॑त् । रा॒ये । नः॒ । विश्वा॑ । सु॒ऽपथा॑ । कृ॒णो॒तु॒ । व॒ज्री ॥ ८.९७.१३

ऋग्वेद » मण्डल:8» सूक्त:97» मन्त्र:13 | अष्टक:6» अध्याय:6» वर्ग:38» मन्त्र:3 | मण्डल:8» अनुवाक:10» मन्त्र:13