वांछित मन्त्र चुनें

मन्ये॑ त्वा य॒ज्ञियं॑ य॒ज्ञिया॑नां॒ मन्ये॑ त्वा॒ च्यव॑न॒मच्यु॑तानाम् । मन्ये॑ त्वा॒ सत्व॑नामिन्द्र के॒तुं मन्ये॑ त्वा वृष॒भं च॑र्षणी॒नाम् ॥

अंग्रेज़ी लिप्यंतरण

manye tvā yajñiyaṁ yajñiyānām manye tvā cyavanam acyutānām | manye tvā satvanām indra ketum manye tvā vṛṣabhaṁ carṣaṇīnām ||

पद पाठ

मन्ये॑ । त्वा॒ । य॒ज्ञिय॑म् । य॒ज्ञिया॑नाम् । मन्ये॑ । त्वा॒ । च्यव॑नम् । अच्यु॑तानाम् । मन्ये॑ । त्वा॒ । सत्व॑नाम् । इ॒न्द्र॒ । के॒तुम् । मन्ये॑ । त्वा॒ । वृ॒ष॒भम् । च॒र्ष॒णी॒नाम् ॥ ८.९६.४

ऋग्वेद » मण्डल:8» सूक्त:96» मन्त्र:4 | अष्टक:6» अध्याय:6» वर्ग:32» मन्त्र:4 | मण्डल:8» अनुवाक:10» मन्त्र:4