वांछित मन्त्र चुनें

त्वं ह॒ त्यद्वृ॑षभ चर्षणी॒नां घ॒नो वृ॒त्राणां॑ तवि॒षो ब॑भूथ । त्वं सिन्धूँ॑रसृजस्तस्तभा॒नान्त्वम॒पो अ॑जयो दा॒सप॑त्नीः ॥

अंग्रेज़ी लिप्यंतरण

tvaṁ ha tyad vṛṣabha carṣaṇīnāṁ ghano vṛtrāṇāṁ taviṣo babhūtha | tvaṁ sindhūm̐r asṛjas tastabhānān tvam apo ajayo dāsapatnīḥ ||

पद पाठ

त्वम् । ह॒ । त्यत् । वृ॒ष॒भ॒ । च॒र्ष॒णी॒नाम् । घ॒नः । वृ॒त्राणा॑म् । त॒वि॒षः । ब॒भू॒थ॒ । त्वम् । सिन्धू॑न् । अ॒सृ॒जः॒ । त॒स्त॒भा॒नान् । त्वम् । अ॒पः । अ॒ज॒यः॒ । दा॒सऽप॑त्नीः ॥ ८.९६.१८

ऋग्वेद » मण्डल:8» सूक्त:96» मन्त्र:18 | अष्टक:6» अध्याय:6» वर्ग:35» मन्त्र:3 | मण्डल:8» अनुवाक:10» मन्त्र:18