वांछित मन्त्र चुनें

त्वं ह॒ त्यत्स॒प्तभ्यो॒ जाय॑मानोऽश॒त्रुभ्यो॑ अभव॒: शत्रु॑रिन्द्र । गू॒ळ्हे द्यावा॑पृथि॒वी अन्व॑विन्दो विभु॒मद्भ्यो॒ भुव॑नेभ्यो॒ रणं॑ धाः ॥

अंग्रेज़ी लिप्यंतरण

tvaṁ ha tyat saptabhyo jāyamāno śatrubhyo abhavaḥ śatrur indra | gūḻhe dyāvāpṛthivī anv avindo vibhumadbhyo bhuvanebhyo raṇaṁ dhāḥ ||

पद पाठ

त्वम् । ह॒ । त्यत् । स॒प्तऽभ्यः॑ । जाय॑मानः । अ॒श॒त्रुऽभ्यः॑ । अ॒भ॒वः॒ । शत्रुः॑ । इ॒न्द्र॒ । गू॒ळ्हे । द्यावा॑पृथि॒वी इति॑ । अनु॑ । अ॒वि॒न्दः॒ । वि॒भ्म॒त्ऽभ्यः॑ । भुव॑नेभ्यः । रण॑म् । धाः॒ ॥ ८.९६.१६

ऋग्वेद » मण्डल:8» सूक्त:96» मन्त्र:16 | अष्टक:6» अध्याय:6» वर्ग:35» मन्त्र:1 | मण्डल:8» अनुवाक:10» मन्त्र:16