वांछित मन्त्र चुनें

व॒यमु॑ त्वा शतक्रतो॒ गावो॒ न यव॑से॒ष्वा । उ॒क्थेषु॑ रणयामसि ॥

अंग्रेज़ी लिप्यंतरण

vayam u tvā śatakrato gāvo na yavaseṣv ā | uktheṣu raṇayāmasi ||

पद पाठ

व॒यम् । ऊँ॒ इति॑ । त्वा॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । गावः॑ । न । यव॑सेषु । आ । उ॒क्थेषु॑ । र॒ण॒या॒म॒सि॒ ॥ ८.९२.१२

ऋग्वेद » मण्डल:8» सूक्त:92» मन्त्र:12 | अष्टक:6» अध्याय:6» वर्ग:17» मन्त्र:2 | मण्डल:8» अनुवाक:9» मन्त्र:12