वांछित मन्त्र चुनें

त्वं दा॒ता प्र॑थ॒मो राध॑साम॒स्यसि॑ स॒त्य ई॑शान॒कृत् । तु॒वि॒द्यु॒म्नस्य॒ युज्या वृ॑णीमहे पु॒त्रस्य॒ शव॑सो म॒हः ॥

अंग्रेज़ी लिप्यंतरण

tvaṁ dātā prathamo rādhasām asy asi satya īśānakṛt | tuvidyumnasya yujyā vṛṇīmahe putrasya śavaso mahaḥ ||

पद पाठ

त्वम् । दा॒ता । प्र॒थ॒मः । राध॑साम् । अ॒सि॒ । असि॑ । स॒त्यः । ई॒शा॒न॒ऽकृत् । तु॒वि॒ऽद्यु॒म्नस्य॑ । युज्या॑ । आ । वृ॒णी॒म॒हे॒ । पु॒त्रस्य॑ । शव॑सः । म॒हः ॥ ८.९०.२

ऋग्वेद » मण्डल:8» सूक्त:90» मन्त्र:2 | अष्टक:6» अध्याय:6» वर्ग:13» मन्त्र:2 | मण्डल:8» अनुवाक:9» मन्त्र:2