वांछित मन्त्र चुनें

अपा॑धमद॒भिश॑स्तीरशस्ति॒हाथेन्द्रो॑ द्यु॒म्न्याभ॑वत् । दे॒वास्त॑ इन्द्र स॒ख्याय॑ येमिरे॒ बृह॑द्भानो॒ मरु॑द्गण ॥

अंग्रेज़ी लिप्यंतरण

apādhamad abhiśastīr aśastihāthendro dyumny ābhavat | devās ta indra sakhyāya yemire bṛhadbhāno marudgaṇa ||

पद पाठ

अप॑ । अ॒ध॒म॒त् । अ॒भिऽश॑स्तीः । अ॒श॒स्ति॒ऽहा । अथ॑ । इन्द्रः॑ । द्यु॒म्नी । आ । अ॒भ॒व॒त् । दे॒वाः । ते॒ । इ॒न्द्र॒ । स॒ख्याय॑ । ये॒मि॒रे॒ । बृह॑द्भानो॒ इति॒ बृह॑त्ऽभानो । मरु॑त्ऽगण ॥ ८.८९.२

ऋग्वेद » मण्डल:8» सूक्त:89» मन्त्र:2 | अष्टक:6» अध्याय:6» वर्ग:12» मन्त्र:2 | मण्डल:8» अनुवाक:9» मन्त्र:2