वांछित मन्त्र चुनें
देवता: इन्द्र: ऋषि: नोधा छन्द: पङ्क्तिः स्वर: पञ्चमः

योद्धा॑सि॒ क्रत्वा॒ शव॑सो॒त दं॒सना॒ विश्वा॑ जा॒ताभि म॒ज्मना॑ । आ त्वा॒यम॒र्क ऊ॒तये॑ ववर्तति॒ यं गोत॑मा॒ अजी॑जनन् ॥

अंग्रेज़ी लिप्यंतरण

yoddhāsi kratvā śavasota daṁsanā viśvā jātābhi majmanā | ā tvāyam arka ūtaye vavartati yaṁ gotamā ajījanan ||

पद पाठ

योद्धा॑ । अ॒सि॒ । क्रत्वा॑ । शव॑सा । उ॒त । दं॒सना॑ । विश्वा॑ । जा॒ता । अ॒भि । म॒ज्मना॑ । आ । त्वा॒ । अ॒यम् । अ॒र्कः । ऊ॒तये॑ । व॒व॒र्त॒ति॒ । यम् । गोत॑माः । अजी॑जनन् ॥ ८.८८.४

ऋग्वेद » मण्डल:8» सूक्त:88» मन्त्र:4 | अष्टक:6» अध्याय:6» वर्ग:11» मन्त्र:4 | मण्डल:8» अनुवाक:9» मन्त्र:4