वांछित मन्त्र चुनें

द्यु॒म्नी वां॒ स्तोमो॑ अश्विना॒ क्रिवि॒र्न सेक॒ आ ग॑तम् । मध्व॑: सु॒तस्य॒ स दि॒वि प्रि॒यो न॑रा पा॒तं गौ॒रावि॒वेरि॑णे ॥

अंग्रेज़ी लिप्यंतरण

dyumnī vāṁ stomo aśvinā krivir na seka ā gatam | madhvaḥ sutasya sa divi priyo narā pātaṁ gaurāv iveriṇe ||

पद पाठ

द्यु॒म्नी । वा॒म् । स्तोमः॑ । अ॒श्वि॒ना॒ । क्रिविः॑ । न । सेके॑ । आ । ग॒त॒म् । मध्वः॑ । सु॒तस्य॑ । सः । दि॒वि । प्रि॒यः । न॒रा॒ । पा॒तम् । गौ॒रौऽइ॑व । इरि॑णे ॥ ८.८७.१

ऋग्वेद » मण्डल:8» सूक्त:87» मन्त्र:1 | अष्टक:6» अध्याय:6» वर्ग:10» मन्त्र:1 | मण्डल:8» अनुवाक:9» मन्त्र:1