वांछित मन्त्र चुनें

ऋ॒तेन॑ दे॒वः स॑वि॒ता श॑मायत ऋ॒तस्य॒ शृङ्ग॑मुर्वि॒या वि प॑प्रथे । ऋ॒तं सा॑साह॒ महि॑ चित्पृतन्य॒तो मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तम् ॥

अंग्रेज़ी लिप्यंतरण

ṛtena devaḥ savitā śamāyata ṛtasya śṛṅgam urviyā vi paprathe | ṛtaṁ sāsāha mahi cit pṛtanyato mā no vi yauṣṭaṁ sakhyā mumocatam ||

पद पाठ

ऋ॒तेन॑ । दे॒वः । स॒वि॒ता । श॒म्ऽआ॒य॒ते॒ । ऋ॒तस्य॑ । शृङ्ग॑म् । उ॒र्वि॒या । वि । प॒प्र॒थे॒ । ऋ॒तम् । स॒सा॒ह॒ । महि॑ । चि॒त् । पृ॒त॒न्य॒तः । मा । नः॒ । वि । यौ॒ष्ट॒म् । स॒ख्या । मु॒मोच॑तम् ॥ ८.८६.५

ऋग्वेद » मण्डल:8» सूक्त:86» मन्त्र:5 | अष्टक:6» अध्याय:6» वर्ग:9» मन्त्र:5 | मण्डल:8» अनुवाक:9» मन्त्र:5