वांछित मन्त्र चुनें

उ॒त त्यं वी॒रं ध॑न॒सामृ॑जी॒षिणं॑ दू॒रे चि॒त्सन्त॒मव॑से हवामहे । यस्य॒ स्वादि॑ष्ठा सुम॒तिः पि॒तुर्य॑था॒ मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तम् ॥

अंग्रेज़ी लिप्यंतरण

uta tyaṁ vīraṁ dhanasām ṛjīṣiṇaṁ dūre cit santam avase havāmahe | yasya svādiṣṭhā sumatiḥ pitur yathā mā no vi yauṣṭaṁ sakhyā mumocatam ||

पद पाठ

उ॒त । त्यम् । वी॒रम् । ध॒न॒ऽसाम् । ऋ॒जी॒षिण॑म् । दू॒रे । चि॒त् । सन्त॑म् । अव॑से । ह॒वा॒म॒हे॒ । यस्य॑ । स्वादि॑ष्ठा । सु॒ऽम॒तिः । पि॒तुः । य॒था॒ । मा । नः॒ । वि । यौ॒ष्ट॒म् । स॒ख्या । मु॒मोच॑तम् ॥ ८.८६.४

ऋग्वेद » मण्डल:8» सूक्त:86» मन्त्र:4 | अष्टक:6» अध्याय:6» वर्ग:9» मन्त्र:4 | मण्डल:8» अनुवाक:9» मन्त्र:4