गृ॒णे तदि॑न्द्र ते॒ शव॑ उप॒मं दे॒वता॑तये । यद्धंसि॑ वृ॒त्रमोज॑सा शचीपते भ॒द्रा इन्द्र॑स्य रा॒तय॑: ॥
gṛṇe tad indra te śava upamaṁ devatātaye | yad dhaṁsi vṛtram ojasā śacīpate bhadrā indrasya rātayaḥ ||
गृ॒णे । तत् । इ॒न्द्र॒ । ते॒ । शवः॑ । उ॒प॒ऽमम् । दे॒वऽता॑तये । यत् । हंसि॑ । वृ॒त्रम् । ओज॑सा । श॒ची॒ऽप॒ते॒ । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥ ८.६२.८