वांछित मन्त्र चुनें

उज्जा॒तमि॑न्द्र ते॒ शव॒ उत्त्वामुत्तव॒ क्रतु॑म् । भूरि॑गो॒ भूरि॑ वावृधु॒र्मघ॑व॒न्तव॒ शर्म॑णि भ॒द्रा इन्द्र॑स्य रा॒तय॑: ॥

अंग्रेज़ी लिप्यंतरण

uj jātam indra te śava ut tvām ut tava kratum | bhūrigo bhūri vāvṛdhur maghavan tava śarmaṇi bhadrā indrasya rātayaḥ ||

पद पाठ

उत् । जा॒तम् । इ॒न्द्र॒ । ते॒ । शवः॑ । उत् । त्वाम् । उत् । तव॑ । क्रतु॑म् । भूरि॑गो॒ इति॒ भूरि॑ऽगो । भूरि॑ । व॒वृ॒धुः॒ । मघ॑ऽवन् । तव॑ । शर्म॑णि । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥ ८.६२.१०

ऋग्वेद » मण्डल:8» सूक्त:62» मन्त्र:10 | अष्टक:6» अध्याय:4» वर्ग:41» मन्त्र:4 | मण्डल:8» अनुवाक:7» मन्त्र:10


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (इन्द्र) हे परमैश्वर्य्य ! (पुरुष्टुतः) हे सर्वस्तुत देव ! (ते) तेरे (वीर्य्यम्) वीर्य (क्रतुम्) कर्म और प्रज्ञा को (विश्वे+देवाः) सब पदार्थ (अनु+ददुः) धारण किये हुए हैं अर्थात् तेरी शक्ति, कर्म और ज्ञान से ही ये सकल पदार्थ शक्तिमान्, कर्मवान् और ज्ञानवान् हैं, इस हेतु तू (विश्वस्य) सम्पूर्ण जगत् का (गोपतिः) चरवाह है ॥७॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे इन्द्र हे पुरुष्टुत ! ते=तव। वीर्यं=शक्तिम्। क्रतुं=कर्म प्रज्ञाञ्च। अनु=अनुसृत्य। विश्वेदेवाः। ददुः=वीर्य्यं क्रतुञ्च धारयन्ति। तवैव वीर्य्येण, कर्मणा प्रज्ञया च सर्वे पदार्थाः वीर्य्यवन्तः कर्मवन्तो ज्ञानवन्तश्च सन्तीत्यर्थः। स त्वम्। विश्वस्य=सर्वस्य। गोपतिरिव। भुवः=भवसि। भद्रा इत्यादि पूर्ववत् ॥७॥