वांछित मन्त्र चुनें

यमृ॒त्विजो॑ बहु॒धा क॒ल्पय॑न्त॒: सचे॑तसो य॒ज्ञमि॒मं वह॑न्ति । यो अ॑नूचा॒नो ब्रा॑ह्म॒णो यु॒क्त आ॑सी॒त्का स्वि॒त्तत्र॒ यज॑मानस्य सं॒वित् ॥

अंग्रेज़ी लिप्यंतरण

yam ṛtvijo bahudhā kalpayantaḥ sacetaso yajñam imaṁ vahanti | yo anūcāno brāhmaṇo yukta āsīt kā svit tatra yajamānasya saṁvit ||

पद पाठ

यम् । ऋ॒त्विजः॑ । ब॒हु॒धा । क॒ल्पय॑न्तः । सऽचे॑तसः । य॒ज्ञम् । इ॒मम् । वह॑न्ति । यः । अ॒नू॒चा॒नः । ब्रा॒ह्म॒णः । यु॒क्तः । आ॒सी॒त् । का । स्वि॒त् । तत्र॑ । यज॑मानस्य । स॒म्ऽवित् ॥ ८.५८.१

ऋग्वेद » मण्डल:8» सूक्त:58» मन्त्र:1 | अष्टक:6» अध्याय:4» वर्ग:29» मन्त्र:1 | मण्डल:8» अनुवाक:6» मन्त्र:1