वांछित मन्त्र चुनें

उ॒प॒मं त्वा॑ म॒घोनां॒ ज्येष्ठं॑ च वृष॒भाणा॑म् । पू॒र्भित्त॑मं मघवन्निन्द्र गो॒विद॒मीशा॑नं रा॒य ई॑महे ॥

अंग्रेज़ी लिप्यंतरण

upamaṁ tvā maghonāṁ jyeṣṭhaṁ ca vṛṣabhāṇām | pūrbhittamam maghavann indra govidam īśānaṁ rāya īmahe ||

पद पाठ

उ॒प॒ऽमम् । त्वा॒ । म॒घोना॑म् । ज्येष्ठ॑म् । च॒ । वृ॒ष॒भाणा॑म् । पु॒र्भित्ऽत॑मम् । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । गो॒ऽविद॑म् । ईशा॑नम् । रा॒यः । ई॒म॒हे॒ ॥ ८.५३.१

ऋग्वेद » मण्डल:8» सूक्त:53» मन्त्र:1 | अष्टक:6» अध्याय:4» वर्ग:22» मन्त्र:1 | मण्डल:8» अनुवाक:6» मन्त्र:1