वांछित मन्त्र चुनें

यस्य॒ त्वमि॑न्द्र॒ स्तोमे॑षु चा॒कनो॒ वाजे॑ वाजिञ्छतक्रतो । तं त्वा॑ व॒यं सु॒दुघा॑मिव गो॒दुहो॑ जुहू॒मसि॑ श्रव॒स्यव॑: ॥

अंग्रेज़ी लिप्यंतरण

yasya tvam indra stomeṣu cākano vāje vājiñ chatakrato | taṁ tvā vayaṁ sudughām iva goduho juhūmasi śravasyavaḥ ||

पद पाठ

यस्य॑ । त्वम् । इ॒न्द्र॒ । स्तोमे॑षु । चा॒कनः॑ । वाजे॑ । वा॒जि॒न् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । तम् । त्वा॒ । व॒यम् । सु॒दुघा॑म्ऽइव । गो॒ऽदुहः॑ । जु॒हू॒मसि॑ । श्र॒व॒स्यवः॑ ॥ ८.५२.४

ऋग्वेद » मण्डल:8» सूक्त:52» मन्त्र:4 | अष्टक:6» अध्याय:4» वर्ग:20» मन्त्र:4 | मण्डल:8» अनुवाक:6» मन्त्र:4