वांछित मन्त्र चुनें

यस्मा॑ अ॒र्कं स॒प्तशी॑र्षाणमानृ॒चुस्त्रि॒धातु॑मुत्त॒मे प॒दे । स त्वि१॒॑मा विश्वा॒ भुव॑नानि चिक्रद॒दादिज्ज॑निष्ट॒ पौंस्य॑म् ॥

अंग्रेज़ी लिप्यंतरण

yasmā arkaṁ saptaśīrṣāṇam ānṛcus tridhātum uttame pade | sa tv imā viśvā bhuvanāni cikradad ād ij janiṣṭa pauṁsyam ||

पद पाठ

यस्मै॑ । अ॒र्कम् । स॒प्तऽशी॑र्षाणम् । आ॒नृ॒चुः । त्रि॒ऽधातु॑म् । उ॒त्ऽत॒मे । प॒दे । सः । तु । इ॒मा । विश्वा॑ । भुव॑नानि । चि॒क्र॒द॒त् । आत् । इत् । ज॒नि॒ष्ट॒ । पौंस्य॑म् ॥ ८.५१.४

ऋग्वेद » मण्डल:8» सूक्त:51» मन्त्र:4 | अष्टक:6» अध्याय:4» वर्ग:18» मन्त्र:4 | मण्डल:8» अनुवाक:6» मन्त्र:4