अ॒जि॒रासो॒ हर॑यो॒ ये त॑ आ॒शवो॒ वाता॑ इव प्रस॒क्षिण॑: । येभि॒रप॑त्यं॒ मनु॑षः प॒रीय॑से॒ येभि॒र्विश्वं॒ स्व॑र्दृ॒शे ॥
ajirāso harayo ye ta āśavo vātā iva prasakṣiṇaḥ | yebhir apatyam manuṣaḥ parīyase yebhir viśvaṁ svar dṛśe ||
अ॒जि॒रासः॑ । हर॑यः । ये । ते॒ । आ॒शवः॑ । वाताः॑ऽइव । प्र॒ऽस॒क्षिणः॑ । येभिः॑ । अप॑त्यम् । मनु॑षः । प॒रि॒ऽईय॑से । येभिः॑ । विश्व॑म् । स्वः॑ । दृ॒शे ॥ ८.४९.८