वांछित मन्त्र चुनें

यद्ध॑ नू॒नं यद्वा॑ य॒ज्ञे यद्वा॑ पृथि॒व्यामधि॑ । अतो॑ नो य॒ज्ञमा॒शुभि॑र्महेमत उ॒ग्र उ॒ग्रेभि॒रा ग॑हि ॥

अंग्रेज़ी लिप्यंतरण

yad dha nūnaṁ yad vā yajñe yad vā pṛthivyām adhi | ato no yajñam āśubhir mahemata ugra ugrebhir ā gahi ||

पद पाठ

यत् । ह॒ । नू॒नम् । यत् । वा॒ । य॒ज्ञे । यत् । वा॒ । पृ॒थि॒व्याम् । अधि॑ । अतः॑ । नः॒ । य॒ज्ञम् । आ॒शुऽभिः॑ । म॒हे॒ऽम॒ते॒ । उ॒ग्रः । उ॒ग्रेभिः॑ । आ । ग॒हि॒ ॥ ८.४९.७

ऋग्वेद » मण्डल:8» सूक्त:49» मन्त्र:7 | अष्टक:6» अध्याय:4» वर्ग:15» मन्त्र:2 | मण्डल:8» अनुवाक:6» मन्त्र:7