वांछित मन्त्र चुनें

उ॒ग्रं न वी॒रं नम॒सोप॑ सेदिम॒ विभू॑ति॒मक्षि॑तावसुम् । उ॒द्रीव॑ वज्रिन्नव॒तो न सि॑ञ्च॒ते क्षर॑न्तीन्द्र धी॒तय॑: ॥

अंग्रेज़ी लिप्यंतरण

ugraṁ na vīraṁ namasopa sedima vibhūtim akṣitāvasum | udrīva vajrinn avato na siñcate kṣarantīndra dhītayaḥ ||

पद पाठ

उ॒ग्रम् । न । वी॒रम् । नम॑सा । उप॑ । से॒दि॒म॒ । विऽभू॑तिम् । अक्षि॑तऽवसुम् । उ॒द्रीऽइ॑व । व॒ज्रि॒न् । अ॒व॒तः । न । सि॒ञ्च॒ते । क्षर॑न्ति । इ॒न्द्र॒ । धी॒तयः॑ ॥ ८.४९.६

ऋग्वेद » मण्डल:8» सूक्त:49» मन्त्र:6 | अष्टक:6» अध्याय:4» वर्ग:15» मन्त्र:1 | मण्डल:8» अनुवाक:6» मन्त्र:6