वांछित मन्त्र चुनें

तमू॒ षु स॑म॒ना गि॒रा पि॑तॄ॒णां च॒ मन्म॑भिः । ना॒भा॒कस्य॒ प्रश॑स्तिभि॒र्यः सिन्धू॑ना॒मुपो॑द॒ये स॒प्तस्व॑सा॒ स म॑ध्य॒मो नभ॑न्तामन्य॒के स॑मे ॥

अंग्रेज़ी लिप्यंतरण

tam ū ṣu samanā girā pitṝṇāṁ ca manmabhiḥ | nābhākasya praśastibhir yaḥ sindhūnām upodaye saptasvasā sa madhyamo nabhantām anyake same ||

पद पाठ

तम् । ऊँ॒ इति॑ । सु । स॒म॒ना । गि॒रा । पि॒तॄ॒णाम् । च॒ । मन्म॑ऽभिः । ना॒भा॒कस्य॑ । प्रस॑स्तिऽभिः॑ । यः । सिन्धू॑नाम् । उप॑ । उ॒त्ऽअ॒ये । स॒प्तऽस्व॑सा । सः । म॒ध्य॒मः । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥ ८.४१.२

ऋग्वेद » मण्डल:8» सूक्त:41» मन्त्र:2 | अष्टक:6» अध्याय:3» वर्ग:26» मन्त्र:2 | मण्डल:8» अनुवाक:5» मन्त्र:2