वांछित मन्त्र चुनें

यः श्वे॒ताँ अधि॑निर्णिजश्च॒क्रे कृ॒ष्णाँ अनु॑ व्र॒ता । स धाम॑ पू॒र्व्यं म॑मे॒ यः स्क॒म्भेन॒ वि रोद॑सी अ॒जो न द्यामधा॑रय॒न्नभ॑न्तामन्य॒के स॑मे ॥

अंग्रेज़ी लिप्यंतरण

yaḥ śvetām̐ adhinirṇijaś cakre kṛṣṇām̐ anu vratā | sa dhāma pūrvyam mame yaḥ skambhena vi rodasī ajo na dyām adhārayan nabhantām anyake same ||

पद पाठ

यः । श्वे॒तान् । अधि॑ऽनिर्निजः । च॒क्रे । कृ॒ष्णान् । अनु॑ । व्र॒ता । सः । धाम॑ । पू॒र्व्यम् । म॒मे॒ । यः । स्क॒म्भेन॑ । वि । रोद॑सी॒ इति॑ । अ॒जः । न । द्याम् । अधा॑रयत् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥ ८.४१.१०

ऋग्वेद » मण्डल:8» सूक्त:41» मन्त्र:10 | अष्टक:6» अध्याय:3» वर्ग:27» मन्त्र:5 | मण्डल:8» अनुवाक:5» मन्त्र:10


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (यः) जो वरुण (आसु) इन प्रजाओं में (अत्कः) व्याप्त है अथवा इन में सतत गमनशील है और जो (एषाम्) इन प्राणियों के (विश्वा+जातानि) समस्त उत्पन्न चरित्र को (आशये) जानता है और (धामानि) समस्त स्थानों में (परि) चारों तरफ से (मर्मृशत्) व्याप्त होते हुए (वरुणस्य) वरुण के (गये+पुरः) रथ के सामने (विश्वे+देवाः) समस्त सूर्य्यादि देव (व्रतम्+अनु) नियम के पीछे-२ चलते हैं (नभन्ताम्) इत्यादि पूर्ववत् ॥७॥
भावार्थभाषाः - जिस ईश्वर के नियम के अनुसार सब सूर्य्यादि देव चल रहे हैं, हे मनुष्यों ! उसकी पूजा करो ॥७॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - यो वरुणः। आसु=प्रजासु। अत्कः=व्याप्तोऽस्ति। अत सातत्यगमने। अथवा प्रजासु यो सततगामी भवति। यश्च। एषां जनानां। विश्वा=विश्वानि=सर्वाणि। जातानि= चरित्राणि। आशये=आशयति=जानातीत्यर्थः। धामानि= समस्तानि स्थानानि। परि परितः। मर्मृशत्=मृशतः= व्याप्नुवतः। वरुणस्य। गये=रथे। पुनः=पुरस्तात्। विश्वेदेवाः। व्रतं। अनुगच्छन्ति। नभन्तामित्यादि गतम् ॥७॥