वांछित मन्त्र चुनें

या नु श्वे॒ताव॒वो दि॒व उ॒च्चरा॑त॒ उप॒ द्युभि॑: । इ॒न्द्रा॒ग्न्योरनु॑ व्र॒तमुहा॑ना यन्ति॒ सिन्ध॑वो॒ यान्त्सीं॑ ब॒न्धादमु॑ञ्चतां॒ नभ॑न्तामन्य॒के स॑मे ॥

अंग्रेज़ी लिप्यंतरण

yā nu śvetāv avo diva uccarāta upa dyubhiḥ | indrāgnyor anu vratam uhānā yanti sindhavo yān sīm bandhād amuñcatāṁ nabhantām anyake same ||

पद पाठ

या । नु । श्वे॒तौ । अ॒वः । दि॒वः । उ॒त्ऽचरा॑तः । उप॑ । द्युऽभिः॑ । इ॒न्द्रा॒ग्न्योः । अनु॑ । व्र॒तम् । उहा॑नाः । य॒न्ति॒ । सिन्ध॑वः । यान् । सी॒म् । ब॒न्धात् । अमु॑ञ्चताम् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥ ८.४०.८

ऋग्वेद » मण्डल:8» सूक्त:40» मन्त्र:8 | अष्टक:6» अध्याय:3» वर्ग:25» मन्त्र:2 | मण्डल:8» अनुवाक:5» मन्त्र:8