वांछित मन्त्र चुनें
देवता: इन्द्र: ऋषि: श्यावाश्वः छन्द: शक्वरी स्वर: धैवतः

ज॒नि॒ताश्वा॑नां जनि॒ता गवा॑मसि॒ पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो । यं ते॑ भा॒गमधा॑रय॒न्विश्वा॑: सेहा॒नः पृत॑ना उ॒रु ज्रय॒: सम॑प्सु॒जिन्म॒रुत्वाँ॑ इन्द्र सत्पते ॥

अंग्रेज़ी लिप्यंतरण

janitāśvānāṁ janitā gavām asi pibā somam madāya kaṁ śatakrato | yaṁ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvām̐ indra satpate ||

पद पाठ

ज॒नि॒ता । अश्वा॑नाम् । ज॒नि॒ता । गवा॑म् । अ॒सि॒ पिब॑ । सोम॑म् । मदा॑य । कम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । यम् । ते॒ । भा॒गम् । अधा॑रयन् । विश्वाः॑ । से॒हा॒नः । पृत॑नाः । उ॒रु । ज्रयः॑ । सम् । अ॒प्सु॒ऽजित् । म॒रुत्वा॑न् । इ॒न्द्र॒ । स॒त्ऽप॒ते॒ ॥ ८.३६.५

ऋग्वेद » मण्डल:8» सूक्त:36» मन्त्र:5 | अष्टक:6» अध्याय:3» वर्ग:18» मन्त्र:5 | मण्डल:8» अनुवाक:5» मन्त्र:5