वांछित मन्त्र चुनें

विश्वै॑र्दे॒वैस्त्रि॒भिरे॑काद॒शैरि॒हाद्भिर्म॒रुद्भि॒र्भृगु॑भिः सचा॒भुवा॑ । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ पिबतमश्विना ॥

अंग्रेज़ी लिप्यंतरण

viśvair devais tribhir ekādaśair ihādbhir marudbhir bhṛgubhiḥ sacābhuvā | sajoṣasā uṣasā sūryeṇa ca somam pibatam aśvinā ||

पद पाठ

विश्वैः॑ । दे॒वैः । त्रि॒ऽभिः । ए॒का॒द॒शैः । इ॒ह । अ॒त्ऽभिः । म॒रुत्ऽभिः । भृगु॑ऽभिः । स॒चा॒ऽभुवा॑ । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥ ८.३५.३

ऋग्वेद » मण्डल:8» सूक्त:35» मन्त्र:3 | अष्टक:6» अध्याय:3» वर्ग:14» मन्त्र:3 | मण्डल:8» अनुवाक:5» मन्त्र:3


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे राजन् ! तथा अमात्यदल ! आप (विश्वैः+देवैः) सर्वदेव अर्थात् (त्रिभिः) त्रिगुणित (एकादशैः) एकादश याने ३३ (तेंतीस) देवों के (अद्भिः) जलों के (मरुद्भिः) मरुद्गणों के तथा (भृगुभिः) भर्जनकारी अग्नियों के (सचाभुवा) साथ ही उत्पन्न हुए हैं। आगे पूर्ववत् ॥३॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे अश्विनौ। युवां विश्वैः=सर्वैर्देवैः। त्रिभिरेकादशैः=त्रयस्त्रिंशद्भिः। अद्भिर्जलैः। मरुद्भिर्मरुद्गणैः। भृगुभिर्भर्जनकारिभिरग्निभिः। सचाभुवा सहभूतौ स्थः। अन्यदुक्तम् ॥३॥