वांछित मन्त्र चुनें

न॒मो॒वा॒के प्रस्थि॑ते अध्व॒रे न॑रा वि॒वक्ष॑णस्य पी॒तये॑ । आ या॑तमश्वि॒ना ग॑तमव॒स्युर्वा॑म॒हं हु॑वे ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥

अंग्रेज़ी लिप्यंतरण

namovāke prasthite adhvare narā vivakṣaṇasya pītaye | ā yātam aśvinā gatam avasyur vām ahaṁ huve dhattaṁ ratnāni dāśuṣe ||

पद पाठ

न॒मः॒ऽवा॒के । प्रऽस्थि॑ते । अ॒ध्व॒रे । न॒रा॒ । वि॒वक्ष॑णस्य । पी॒तये॑ । आ । या॒त॒म् । अ॒श्वि॒ना॒ । आ । ग॒त॒म् । अ॒व॒स्युः । वा॒म् । अ॒हम् । हु॒वे॒ । ध॒त्तम् । रत्ना॑नि । दा॒शुषे॑ ॥ ८.३५.२३

ऋग्वेद » मण्डल:8» सूक्त:35» मन्त्र:23 | अष्टक:6» अध्याय:3» वर्ग:17» मन्त्र:5 | मण्डल:8» अनुवाक:5» मन्त्र:23


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (अश्विना) हे अश्विद्द्वय (नरा) हे सर्वनेता राजन् तथा मन्त्रिदल ! (नमोवाके) जिसमें नमः शब्द का उच्चारण हो, ऐसे (अध्वरे) यज्ञ के (प्रस्थिते) प्रस्तुत होने पर आप दोनों ! (विवक्षणस्य) प्रवहणशील सोम के (पीतये) पीने के लिये (आयातम्) आवें। शेष पूर्ववत् ॥२३॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे अश्विनौ ! नरा नेतारौ ! नमोवाके नमोवचने नमः शब्दस्य वाग् उच्चारणं यत्र तस्मिन्। अध्वरे यागे प्रस्थिते उपस्थिते प्रस्तुते सति। युवाम्। विवक्षणस्य प्रवहणशीलस्य सोमस्य पीतये। आगच्छतम्। शेषं पूर्ववत् ॥२३॥